॥ श्रीगुरुस्वामीसमर्थ॥

Back to Articles

श्रीगणेशायनम: श्री योगेश्वर्यैनम: देव्युवाच। भगवन् सर्व-माख्यातं मंत्रयंत्रादिकं त्वया। योगिन्या: कवचंदेव न कुत्रापि प्रकाशितं ॥१॥ श्रोतुमिच्छाम्यहं देव कृपापात्रं तवास्म्यहम्।कथयस्व महादेव यद्यहं तव वल्लभा ॥२॥ ईश्वर उवाच:- श्रृणुदेवि महाविद्यां सर्वदेवप्रपूजिताम्। यस्या: कटाक्षमात्रेण त्रैलोक्यविजयी हरि: ॥३॥ सृष्टिकर्ता भवेद् ब्रह्मा संहर्ताहं तथैवच। यस्या:स्मरणमात्रेण देवादेवत्वमाप्नुयु: ॥४॥ रहस्यं श्रृणुवक्ष्यामि योगेश्या: प्राणवल्लभे।त्रैलोक्य-विजयं नाम कवचं मंत्र विग्रहम् ॥५॥ अस्य श्री योगेश्वरीकवचस्य।महादेव ऋषि:। अनुष्टुप्छंद:। श्री योगेश्वरी देवता । ऐंबीजं । ऱ्हीं शक्ति: श्रीं कीलकं । मम योगेश्वरीप्रसाद-सिध्दार्थे जपे विनियोग: ।अथन्यास:- श्री महादेव ऋषये नम: शिरसि । अनुष्टुप् छंदसे नम: मुखे। श्री योगेश्वरी देवतायै नम: हृदये। ऐं बीजाय नम: दक्षिणस्तने। ऱ्हीं शक्तये नम: वामस्तने। श्रीं कीलकाय नम: नाभौ ऐं अंगुष्ठाभ्यंनम: ऱ्हीं तर्जनीभ्यां नम:। श्रीं मध्यमाभ्यां नम:। ऐं अनामिकाभ्यां नम:। ऱ्हीं कनिष्ठिकाभ्यां नम:। श्रीं करतलकरपृष्ठाभ्यां नम:। ऐं हृदयायनम:। ऱ्हीं शिररोस्वाहा। श्रीं शिखायै वषट्। ऐं कवचाय हुं। ऱ्हीं नेत्रत्रयायवीपट्। श्रीं अस्त्रायफट्। भूर्भुव: स्वरोंइति दिग्वंध:। अथध्यानं:- खड्गपात्रं च मुसलं लांगलं बिभतिं सा। आख्याता रक्तचामुंडा देवी योगेश्वरी तथा। इति ध्यात्वा-पंचोपचारै: संपूज्य कवचं पठेत्। शिरो मे शांकरी पातु मूर्ध्नि नारायणी तथा। ऐं बीजा भालदेशेतु ऱ्हीं बींजं दक्षनेत्रके ॥१॥ श्रीं बीजं वामनेत्रे च दक्षश्रोत्रे परास्मृता। वामश्रोत्रे नारसिंही नासामूलंच खड्गिनी ॥२॥ नासिकां मानिनी पातु मुखं मेऽवतु चांबिका। कपोलौ भूतसंहारी चुबुकं भ्रामरी तथा ॥३॥ कंठं मे चंडिका पातु हृदयं विंध्यवासिनी। उदरे गिरिजा पातु नाभिंमेवऽतु भोगिनी ॥४॥ शुंभिनी पृष्ठदेशे च स्कंधयो: शूलधारिणी। हस्तयोर्योगिनी रक्षेत्कंबुकंठ्यगुली स्तया ॥५॥ कट्यां च सुंदरी रक्षेद्गह्यं। गुह्येश्वरी तथा। कुब्जिका पातु मे मेढ्रम् पायु-देशेच शांभवी ॥६॥ भद्रकालीपातु चोर्वो जान्वोर्मेऽवतु कालिका । जंधे पातु महाभीमा गुल्फयोर्वतुशुलिनी ॥७॥ पादयो: श्रीधरी रक्षेत्सर्वांगे योगिनी वतु। रक्तमजज्जावसामांसान्यस्थिमेदांसि भैरवी ॥८॥ चामुंडा चैव वाराही कौमारीवैष्णवी तथा । माहेश्वरी च सर्वाद्या जयश्रीर्मंगला तथा ॥९॥ रक्षंतु स्वायुधैर्दिक्षु मां विदिक्षु यथा तथा। इतीदं कवचं दिव्यं पठनात्सर्वसिद्धिदम् ॥१०॥ स्मरणात्कवचस्यास्य जय: सर्वत्र जायते। राजद्वारे स्मशाने च भूतप्रेताभिचारके ॥११॥ बंधने च महादु:खे जपेच्छत्रुसमागमे। प्रयोगंचाभिचारं च यो नर: कर्तुमिच्छति ॥१२॥ अयुताच्च भवेत्सिद्धि: पठनात्कवचस्य तु। सर्वत्र लभते कीर्ति: श्रीमान्भवति धार्मिक: ॥१३॥ भूर्जपत्रे लिखित्वा तु कवचं यस्तु धारयेत्। मंत्रसिद्धिमवाप्नोती योगेश्वर्या: प्रसादत: ॥१४॥ पुत्रवान्धनवान्छ्रीमान्नानाविद्यानिधिर्भवेत्। ब्रह्मास्त्रादीनि शस्त्राणि नश्यन्ति पठनाच्च वै ॥१५॥ इदं कवचमज्ञात्वा योगिनीं लभते न च ।शतलक्षप्रजप्त्वापि तस्य विद्या न सिध्यति ॥१६॥ इति श्री रुद्रयामले बहुरूपाष्टक प्रस्तावे ईश्वरपार्वती संवादे योगेश्वरी कवचं संपूर्णम्।। अथ मूल मंत्र: ॐ ऱ्हीं नमो भगवतिरक्तचांमुडे योगेश्वरी, योगिनीं ऱ्हीं स्वाहा इति मंत्र: रक्तचामुंडायै विघ्नहे भूत संहारिण्यैच धीमहि। तन्नो योगेश्वरी प्रचोदयात्।। गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपं।सिद्धिर्भवतु मे देवी त्वप्रसादात्त्वयि स्थिति: लं, हं, यं, रं, वं।

अथ:- महामंत्र:- ॐ अस्य श्री योगेश्वरी महामन्त्रस्य महादेवऋषि: अनुष्टुप् छंद: । श्री योगेश्वरी देवता । ऱ्हीं बीजम्। श्रीं शक्ति:। क्लीं कीलकम्। मम चतुविंधपुरुषार्थसिद्ध्यर्थे जपे विनियोग: । अथ न्यास:- ॐ ऱ्हीं अंगुष्ठाभ्यां नम:। ॐ यं तर्जनीभ्यां नम: । ॐ यां मध्यमाभ्यां नम:। ॐ रुद्रद्रेवत्या अनामिकाभ्यांनम: । ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नम:। ॐ स्वाहा करतलकर पृष्ठाभ्यां नम:। एवं हृदयादि न्यसेत्। अथ ध्यानम्॥ ॐ देवीं भक्तजनप्रियां सुवदनां खड्ंग च पाशं तथा। स्वर्णालङ्कृतलाङगलं सुमुसलं हस्तैर्दधानां श्रियम् ॥विद्युत्कोटिरवीन्दुकान्ति धवलां दन्तासुरोन्मूलिनीं । ब्रह्मेन्द्राद्यभिवन्दितां च वरदां योगेश्वरीं संभजे ॥१॥ लं पृथिव्यादि पंच मानसोपचारै: संपूज्य जपेत्। अथ मंत्र:। ॐ ऱ्हीं यं यां रुद्रदेवतायै योगेश्वर्यै स्वाहा ॥ उत्तर न्यासं कृत्या गृह्यातिगुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपम्। सिद्धिभर्वतु मे देवित्वत्प्रसादात्सुरेश्वरि ॥ इति ॥ॐ ॐ ॐ